|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.120. अध्यायः 120
Mahabharata - Vana Parva - Chapter Topics
बलभद्रेण वृष्णिपाण्डवसभायां भीष्मधृतराष्ट्रादिगर्हणपूर्वकं पाण्डवान्प्रति शोचनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-120-0x(2094)(20602)
प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा।
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ 3-120-1(20603)
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः।
वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम् ॥ 3-120-2(20604)
वैशम्पायन उवाच। 3-120-3x(2095)
प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः।
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे ॥ 3-120-3(20605)
ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः।
वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ 3-120-4(20606)
न कृष्ण धर्मश्चरितो भवाय
जन्तोरधर्मश्च पराभवाय।
युधिष्ठिरो यत्रजटी महात्मा
वनाश्रयः क्लिश्यति चीरवासाः ॥ 3-120-5(20607)
दुर्योधनश्चापि महीं प्रशास्ति
न चास्य भूमिर्विवरं ददाति।
धर्मादधर्मश्चरितो वरीया-
नितीव मन्येत नरोऽल्पबुद्धिः ॥ 3-120-6(20608)
दुर्योधने चापि विवर्धमाने
युधिष्ठिरे चासुखमात्तराज्ये।
`हृतस्वराज्यायतनार्थभार्ये
दुर्योधनेनाल्पधिया च पार्थे'।
किंन्वत्र कर्तव्यमिति प्रजाभिः
शङ्का मिथः संजनिता नराणाम् ॥ 3-120-7(20609)
अयं स धर्मप्रभवो नरेन्द्रो
धर्मे धृतः सत्यधृतिः प्रदाता।
चलेद्धि राज्याच्च सुखाच्च पार्थो
धर्मादपेतस्तु कथं विवर्धेत् ॥ 3-120-8(20610)
कथं नु भीष्मश्च कृपश्च विप्रो
द्रोणश्च राजा च कुलस्य वृद्धः।
प्रव्राज्य पार्थान्सुमाप्नुवन्ति
धिक्पापबुद्धीन्भरतप्रधानान् ॥ 3-120-9(20611)
किंनाम वक्ष्यत्यवनिप्रधानः
पितृडन्समागम्य परत्र पापः।
पुत्रेषु सम्यक्वरितं मयेति
पुत्रानपापान्व्यपरोप्य राज्यात् ॥ 3-120-10(20612)
नासौ धिया संप्रति पश्यति स्म
किंनाम कृत्वाऽहमचक्षुरेवम्।
जातः पृथिव्यामिति पार्थिवेषु
प्रव्राज्यकौन्तेयमिति स्म राज्यात् ॥ 3-120-11(20613)
नूनं समृद्धान्पितृलोकभूमौ
चामीकराभान्क्षितिजान्प्रफुल्लान्।
विचित्रवीर्यस्य सुतः सपुत्रः
कृत्वा नृशंसं वत पश्यति स्म ॥ 3-120-12(20614)
व्यूढोत्तरांसान्पृथुलोहिताक्षा-
निमाम्स्म पृच्छन्स शृणोति नूनम्।
प्रास्थापयद्यत्स वनं सशङ्को
युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ 3-120-13(20615)
योऽयं परषां पृतनां समृद्धां
निरायुधो दीर्घभुजो निहन्यात्।
श्रुत्वैव शब्दं हि वृकोदरस्य
मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ 3-120-14(20616)
स क्षुत्पिपासाध्वकृशस्तरस्वी
समेत्य नानायुधबाणपाणिः।
वने स्मरन्वासमिमं सुघोरं
शेषं न कुर्यादिति निश्चितं मे ॥ 3-120-15(20617)
न ह्यस् वीर्येण बलेन कश्चि-
त्समः पृथिव्यामपि विद्यतेऽन्यः।
स शीतवातातपकर्शिताङ्गो
न शेषमाजावसुहृत्सु कुर्यात् ॥ 3-120-16(20618)
प्राच्यां नृपानेकरथेन जित्वा
वृकोदरः सानुचरान्रणेषु।
स्वस्त्यागमद्योऽतिरथस्तरस्वी
सोयं वने क्लिश्यति चीरवासाः ॥ 3-120-17(20619)
यः सिन्धुकूले व्यजयन्नृदेवा-
न्समागतान्दाक्षिणात्यान्महीपान्।
तं पश्यतेमं सहदेवमद्य
तरस्विनं तापसवेषरूपम् ॥ 3-120-18(20620)
यः पार्थिवानेकरथेन वीरो
दिशं प्रतीचीं प्रत्नियुद्धशौण्डः।
जिग्ये रणे तं नकुलं वनेऽस्मि-
न्संपश्यतैनं मलदिग्धगात्रम् ॥ 3-120-19(20621)
सत्रे समृद्धेऽतिरथस्य राज्ञो
वेदीतलादुत्पतिता सुता या।
सेयं वने वासमिमं सुदुःखं
कथं सहत्यद्य सती सुखार्हा ॥ 3-120-20(20622)
त्रिवर्गमुख्यस् समीरणस्य
देवेश्वरस्याप्यथवाऽश्विनोश्च।
एषां सुराणां तनयाः कथंनु
वने चरन्त्यस्तसुखाः सुखार्हाः ॥ 3-120-21(20623)
जिते हि धर्मस्य सुते सभार्ये
सभ्रातृके सानुचरे निरस्ते।
दुर्योधने चापि विवर्धमाने
कथं न सीदत्यवनिः सशैला ॥ 3-120-22(20624)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-120-5 भवाय अभ्युदयाय ॥ 3-120-6 विवरं शरीरगूहृनाय न ददातीत्यर्थः ॥ 3-120-7 मिथः शङ्काधर्माधर्मयोः किं बलीय इति शास्त्रानुभवयोर्विरोधात्संशयः ॥ 3-120-8 राज्याच्च सुखाच्च चलेत् नतु धर्मादिति शेषः। तत्र हेतुः धर्मादिति ॥ 3-120-10 अवनिप्रधानो धृतराष्ट्रः ॥ 3-120-11 किंनाम पापं कृत्वाऽहमचक्षुर्जातः कौन्तेयं प्रव्राज्य कीदृशो भविष्यामीति धिया नासौ पश्यतीत्यध्याहृत्य योज्यम् ॥ 3-120-12 चामीकराभान् कनकप्रभान्। एतन्मरणचिह्नम्। नृशंसं निन्द्यं कर्स ॥ 3-120-15 शेषं न कुर्यात् निऋशेषमेव नाशयेदित्यर्थः ॥ 3-120-17 खस्ति क्षेमेण आगमत् आगतः ॥ 3-120-18 यो दन्तकूटे त्वजयत्समेतानिति ध. पाठः ॥ 3-120-20 राज्ञः द्रुपदस्य ॥ 3-120-21 त्रिवर्गमुख्यस् धर्मस्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|